|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.20. अध्यायः 020
Mahabharata - Sabha Parva - Chapter Topics
कृष्णयुधिष्ठिरसंवादानन्तरं भीमार्जुनाभ्यांसह कृष्णस्य मागधपुरप्रस्थानम्॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
वासुदेव उवाच॥
पतितौ हंसडिभिकौ कंसश्च सगणो हतः।
जरासन्धस्य निधने कालोऽयं समुपागतः॥ 2-20-1(12104)
न शक्योऽसौ रणे जेतुं सर्वैरपि सुरासुरैः।
प्राणयुद्धेन जेतव्यः स इत्युपलभामहे॥ 2-20-2(12105)
मयि नीतिर्बलं भीमे रक्षिता चावयोर्जयः।
मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः॥ 2-20-3(12106)
त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः।
न सन्देहो यथा युद्धमेकेनाप्युपयास्यति॥ 2-20-4(12107)
अवमानाच्च लोभाच्च बाहुवीर्याच्च दर्पितः।
भीमसेनेन युद्धाय ध्रुवमप्युपयास्यति॥ 2-20-5(12108)
अलं तस्य महाबाहुर्भीमसेनो महाबलः।
लोकस्य समुदीर्णस्य निधनायान्तको यथा॥ 2-20-6(12109)
यदि भीमबलं वेत्सि यदि ते प्रत्ययो मयि।
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे॥ 2-20-7(12110)
वैशम्पायन उवाच॥ 2-20-8x(1413)
एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः।
भीमार्जुनौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ॥ 2-20-8(12111)
युधिष्ठर उवाच। 2-20-9x(1414)
अच्युताच्युत मामैवं व्याहरामित्रकर्शन।
पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम्॥ 2-20-9(12112)
यथा वदसि गोविन्द सर्वं तदुपपद्यते।
नहि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी॥ 2-20-10(12113)
`येषामभिमुखी लक्ष्मीस्तेषां कृष्ण त्वमग्रतः'।
निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः। 2-2--11c राजसूयश्च मे लब्धो निदेशे त्व तिष्ठतः॥ 2-20-11(12114)
क्षिप्रमेव यथा त्वेतत्कार्यं समुपपद्यते।
अप्रमत्तो जगन्नाथ तथा कुरु समुपपद्यते। 2-20-12(12115)
त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे।
धर्मकामार्थरहितो रोगार्त इव दुःखितः॥ 2-20-13(12116)
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना।
नाजेयोस्त्यनयोऽर्लोके कृष्णयोरिति मे मतिः॥ 2-20-14(12117)
अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः।
युवाभ्यां सहितो वीर किं न कुर्यान्महायशाः॥ 2-20-15(12118)
सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम्।
अन्धं बलं जडं प्राहुः प्रणेतव्यं विचक्षणैः॥ 2-20-16(12119)
यतो हि निम्नं भवति नयन्ति हि ततो जलम्।
यतश्छिद्रं ततश्चापि नयन्ते धीवरा जलम्॥ 2-20-17(12120)
तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम्।
वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये॥ 2-20-18(12121)
एवं प्रज्ञानयबलं क्रियोपायसमन्वितम्।
पुरस्कृर्वीत कार्येषु कृष्णकार्यार्थसिद्धये॥ 2-20-19(12122)
एवमेव यदुश्रेष्ठ यावत्कार्याथिसिद्धये।
अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम्।
नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति॥ 2-20-20(12123)
वैशम्पायन उवाच। 2-20-21x(1415)
एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः।
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति॥ 2-20-21(12124)
वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदैः।
आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः॥ 2-20-22(12125)
`माधवः पाण्डवेयौ च प्रतस्थुर्व्रतधारिणः'।
अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यतेजसाम्।
रविसोमाग्निवपुषां दीप्तमासीत्तदा वपुः॥ 2-20-23(12126)
इतं मेने जरासन्धं दृष्ट्वा भीमपुरोगमौ।
एककार्यसमुद्यन्तौ कृष्णौ युद्धेऽपराजितौ॥ 2-20-24(12127)
ईशौ हितौ महात्मानौ सर्वकार्यप्रवर्तिनौ।
धर्मकामार्थलोकानां कार्याणां च प्रवर्तकौ॥ 2-20-25(12128)
कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम्।
रम्यं पद्मसरो गत्वा कालकूडमतीत्य च॥ 2-20-26(12129)
गण्डकीं च महाशोणं सदानीरां तथैव च।
एकपर्वतके नद्यः क्रमेणैत्याव्रजन्त ते॥ 2-20-27(12130)
उत्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान्।
अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम्॥ 2-20-28(12131)
अतीत्य गङ्गां शोणं च त्रयस्ते प्राङ्मुखास्तदा।
कुशचीरच्छदा जग्मुर्मागधं क्षेत्रमच्युताः॥ 2-20-29(12132)
ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम्।
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम्॥ ॥ 2-20-30(12133)
इति श्रीमन्महाभारते सभापर्वणि जरासन्धवधपर्वणि विंशोऽध्यायः॥ 20॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-20-3 जयोऽर्जुनः॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|